|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.193. अध्यायः 193
Mahabharata - Drona Parva - Chapter Topics
द्रोणधृष्टद्युम्नयोर्युद्धम्॥ 1 ॥ द्रोणेन सोपालम्भभीमवचः श्रवणेन शस्त्रन्यासपूर्वकं योगेन शीरत्यागः॥ 2 ॥ शरीरार्न्निर्गच्छतस्तेजोरूपस्य द्रोणस्य सञ्जयादिभिः पञ्चभिरेवावलोकनम्॥ 3 ॥ धृष्टद्युम्नेन द्रोणशिरश्छेदः॥ 4 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्चय उवाच। 7-193-0x(4775)(54002)
[सात्वतस्य* तु तत्कर्म दृष्ट्वा दुर्योधनादयः।
शैनेयं सर्वतः क्रुद्धा वारयामासुरञ्जसा॥ 7-193-1(54003)
कृपकर्णौ च समरे पुत्राश्च तव मारिष॥
शैनेयं त्वरयाऽभ्येत्य विनिघ्नन्निशितैः शरैः॥ 7-193-2(54004)
युधिष्ठिरस्ततो राजा माद्रीपुत्रौ च पाण्डवौ।
भीमसेनश्च बलवान्सात्यकिं पर्यवारयन्॥ 7-193-3(54005)
कर्णश्च शरवर्षेण गौतमश्च महारथः।
दुर्योधनादयस्ते च शैनेयं पर्यवारयन्॥ 7-193-4(54006)
तां वृष्टिं सहसा राजन्नुत्थितां घोररूपिणीम्।
वारयामास शैनेयो योधयंस्तान्महारथान्॥ 7-193-5(54007)
तेषामस्त्राणि दिव्यानि संहितानि महात्मनाम्।
वारयामास विधिवद्दिव्यैरस्त्रैर्महामृधे॥ 7-193-6(54008)
क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे।
रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तान्पशून्पुरा॥ 7-193-7(54009)
हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत।
छत्राणां चापविद्धानां चामराणां च सञ्चयैः।
राशयः स्म व्यदृश्यन्त तत्रतत्र रणाजिरे॥ 7-193-8(54010)
भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः।
सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाऽभवत्॥ 7-193-9(54011)
बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम।
चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे॥ 7-193-10(54012)
वर्तमाने तथा युद्धे घोरे देवासुरोपमे।
अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः॥ 7-193-11(54013)
अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः।
एषो हि पार्पतो वीरो भारद्वाजेन सङ्गतः॥ 7-193-12(54014)
घटते च यथाशक्ति भारद्वाजस्य नाशने।
यादृशानि हि रूपाणि दृश्यन्तेऽस्य महारणे॥ 7-193-13(54015)
अद्य द्रोणं रणे क्रुद्धो घातयिष्यति पार्पतः।
ते यूयं सहिता भूत्वा युध्यध्वं कुम्भसम्भवम्। 7-193-14(54016)
युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः।
अभ्यद्रवन्त संयत्ता भारद्वाजजिघांसवः॥ 7-193-15(54017)
तान्समापततः सर्वान्भारद्वाजो महारथः।
अभ्यवर्तत वेगेन मर्तव्यमिति निश्चितः॥ 7-193-16(54018)
प्रयाते सत्यसन्धे तु समकम्पत मेदिनी।
ववुर्वाताः सनिर्घातास्त्रासयाना वरूथिनीम्॥ 7-193-17(54019)
पपात महती चोल्का आदित्यान्निश्चरन्त्युत।
दीपयन्ती उभे सेने शंसन्तीव महद्भयम्॥ 7-193-18(54020)
जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष।
रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन्॥ 7-193-19(54021)
हतौजा इव चाप्यासीद्भारद्वाजो महारथः।
प्रास्फुरन्नयनं चास्य वामबाहुस्तथैव च॥ 7-193-20(54022)
विमनाश्चाभवद्युद्धे दृष्ट्वा पार्षतमग्रतः॥ 7-193-21(54023)
ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति।
सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे॥] 7-193-22(54024)
ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः।
निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे॥ 7-193-23(54025)
हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः।
दशायुतानि करिणामवधीद्विशिखैः शितैः॥ 7-193-24(54026)
सोऽतिष्ठदाहवे यत्तो विधूमोऽग्निरिव ज्वलन्।
क्षत्रियाणामभावाय ब्राह्ममस्त्रं समास्थितः॥ 7-193-25(54027)
पाञ्चाल्यं विरथं भीमो हतसर्वायुधं बली।
सुविपण्णं महात्मानं त्वरमाणः समभ्ययात्॥ 7-193-26(54028)
ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः।
अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात्॥ 7-193-27(54029)
न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान्।
त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः॥ 7-193-28(54030)
स तथोक्तो महाबाहुः सर्वभारसहं धनुः।
अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम्॥ 7-193-29(54031)
संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे।
विवारयिपुराचार्यं शरवर्षैरवाकिरत्॥ 7-193-30(54032)
तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ।
उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः॥ 7-193-31(54033)
स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे।
निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः॥ 7-193-32(54034)
स वसातीञ्शिवींस्चैव वाह्लीकान्कौरवानपि।
रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः॥ 7-193-33(54035)
धृष्टद्युम्नस्तथा राजन्गभस्तिभिरिवांशुमान्।
वभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः॥ 7-193-34(54036)
तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः।
मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात्॥ 7-193-35(54037)
ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम्।
शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत्॥ 7-193-36(54038)
यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः।
स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत्॥ 7-193-37(54039)
अहिंसां सर्वभूतेषु धर्मं ज्यायस्तरं विदुः।
तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः॥ 7-193-38(54040)
श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान्।
`भरन्ति हि सुतान्दारांस्तद्वदज्ञानमोहिताः'॥ 7-193-39(54041)
अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया।
एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यया।
स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम्॥ 7-193-40(54042)
`आचारहीन निर्लज्ज ब्रह्मवन्धो वरायुध।
इदानीं तिष्ठ दुर्बुद्धे न मे जीवन्विमोक्ष्यसे॥ 7-193-41(54043)
यस्यार्थे शस्त्रमादाय यमपेक्ष्य च जीवसि।
स चाद्य पतितः शेते पृष्टेनावेदितस्तवः॥ 7-193-42(54044)
`स वै च निहतः शेते तव पुत्रः सुमन्दधीः'।
धर्मराजस्य तद्वाक्यं नाभिशङ्कितुमर्हसि॥ 7-193-43(54045)
एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्वनुः।
`सन्न्यासाय शरीरस्य योक्ष्यमाणः स वै द्विजः'।
सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभापत॥ 7-193-44(54046)
`कर्णं दुर्योधनं राजंस्त्वरमाणः पराक्रमम्'।
कर्णकर्ण महेष्वास कृप दुर्योधनेति च॥ 7-193-45(54047)
सङ्ग्रामे क्रियतां यत्नो ब्रवीम्येष पुनःपुनः।
पाण्डवेभ्यः शिवं वोस्तु शस्त्रमभ्युत्सृजाम्यहम्।
इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च॥ 7-193-46(54048)
उत्सृज्य च रणे शस्त्रं रथोपस्थे निविश्य च।
अभयं सर्वभूतानां प्रददौ योगमीयिवान्॥ 7-193-47(54049)
तस्य तच्छिद्रनाज्ञाय धृष्टद्युम्नः प्रतापवान्।
सशरं तद्वनुर्घोरं सन्न्यस्याथ रथे ततः।
खङ्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात्॥ 7-193-48(54050)
`प्रद्रुते त्वथ द्रोणाय धृष्टद्युम्ने महारथे'।
हाहाकृतानि भूतानि मानुषाणीतराणि च॥ 7-193-49(54051)
द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम्।
हाहाकारं भृशं चक्रुरहो धिगिति चाबुवन्॥ 7-193-50(54052)
द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साङ्ख्यमास्थितः।
तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः॥ 7-193-51(54053)
पुराणं पुरुषं विष्णुं जगाम मनसा परम्।
मुखं किञ्चित्समुन्नाम्य विष्टब्योरस्तथाग्रतः॥ 7-193-52(54054)
निमीलिताक्षः सत्वस्थो निक्षिप्य हृदि धारणाम्।
ओमित्येकाक्षरं ब्रह्म ज्योतिर्भूतो महातपाः॥ 7-193-53(54055)
स्मरित्वा देवदेवेशमक्षरं परमं प्रभुम्।
दिवमाक्रामदाचार्यः साक्षात्सद्भिर्दुराक्रमाम्॥ 7-193-54(54056)
`मूर्धानं तस्य निर्भिद्य ज्योती राजन्महात्मनः।
जगाम परमं स्थानं देहं न्यस्य रथोत्तमे'॥ 7-193-55(54057)
द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथागते।
एकरूपमिवाभासीज्योतिर्भिः पूरितं नभः॥ 7-193-56(54058)
समपद्यत चोल्काभं द्रोणस्य निधने तदा।
निमेषमात्रेण च तज्ज्योतिरन्तरधीयत॥ 7-193-57(54059)
आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम्।
ब्रह्मलोकगते द्रोणे धृष्टद्युम्ने च मोहिते॥ 7-193-58(54060)
वयमेव तदाऽद्राक्ष्म पञ्च मानुषयोनयः।
योगयुक्तं महात्मानं गच्छन्तं परमां गतिम्॥ 7-193-59(54061)
अहं धनञ्जयः पार्थः कृपः शारद्वतो द्विजः।
वासुदेवश्च वार्ष्णेयो धर्मपुत्रश्च पाण्डवः॥ 7-193-60(54062)
अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः।
महिमानं महाराज योगयुक्तस्य गच्छतः।
ब्रह्मलोकं महद्दिव्यं देवगुह्यं हि तत्परम्॥ 7-193-61(54063)
गतिं परमिकां प्राप्तमजानन्तो नृयोनयः।
नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः।
आचार्यं योगमास्थाय ब्रह्मलोकमरिन्दमम्॥ 7-193-62(54064)
वितुन्नाङ्गं शरव्रातैरन्यस्तायुधमसृक्क्षरम्।
विकृष्य पार्षतः खङ्गं क्रोधामर्षवशं गतः।
दृश्यमानः सर्वभूतैः केशपक्षे परामृशत्॥ 7-193-63(54065)
तस्य मूर्धानमालम्ब्य गतसत्वस्य देहिनः।
किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः॥ 7-193-64(54066)
हर्षेण महता महता युक्तो भारद्वाजे निपातिते।
सिंहनादरवं चक्रे भ्रामयन्खङ्गमाहवे॥ 7-193-65(54067)
आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः।
त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत्॥ 7-193-66(54068)
उक्तवाश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः।
जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज॥ 7-193-67(54069)
न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह।
उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाव्रजत्॥ 7-193-68(54070)
क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः।
धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम्॥ 7-193-69(54071)
शोणितेन परिक्लिन्नो रथाद्भूमिमथापतत्।
लोहिताङ्ग इवादित्यो दुर्धर्षः समपद्यत॥ 7-193-70(54072)
एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः।
धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरोऽहरत्॥ 7-193-71(54073)
तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत्।
ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः॥ 7-193-72(54074)
पलायनकृतोत्साहा दुद्रुवः सर्वतोदिशम्।
द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत्॥ 7-193-73(54075)
अहमेव तदाऽद्राक्षं द्रोणस्य निधनं नृप।
ऋषेः प्रसादात्कृष्मस्य सत्यवत्याः सुतस्य च॥ 7-193-74(54076)
विधूमामिह संयान्तीमुल्कां प्रज्वलितामिव।
अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम्॥ 7-193-75(54077)
हते द्रोणे निरुत्साहाः कुरुपाण्डवसृञ्जयाः।
अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत॥ 7-193-76(54078)
निहता हतभूयिष्ठाः सङ्ग्रामे निशितैः शरैः।
तावका निहते द्रोणे गतासव इवाभवन्॥ 7-193-77(54079)
पराजयमथावाप्य परत्र च महद्भयम्।
उभयेनैव ते हीना व्यनिन्दन्मतिमात्मनः॥ 7-193-78(54080)
अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः।
नान्वगच्छन्महाराज कबन्धायुतसङ्कुले॥ 7-193-79(54081)
`पतिते त्वथ संरब्धे सेनायां तत्र भारत।
उदिष्ठन्कबन्धानां सहस्राण्येकविंशतिः॥ 7-193-80(54082)
शोणितेन परिक्लिन्ना रणभूमिश्च भारत।
लोहितार्द्र इवादित्यो दुर्दर्शश्चाभवत्तदा'॥ 7-193-81(54083)
पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः।
बाणशङ्खरवांश्चक्रुः सिंहनादांश्च पुष्कलान्॥ 7-193-82(54084)
भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः।
वरूथिन्यामनृत्येतां परिष्वज्य परस्परम्॥ 7-193-83(54085)
अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम्।
भूयोऽहं त्वां परिष्वज्य परिवक्ष्यामि पार्षत।
सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे॥ 7-193-84(54086)
एतावदुक्त्वा भीमस्तु हर्षेण महता युतः।
बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः॥ 7-193-85(54087)
तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि।
क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः॥ 7-193-86(54088)
पाण्डवास्तु जयं लब्धा हृष्टा ह्यासन्विशाम्पते।
अरिक्षयं च सङ्ग्रामे तेन ते सुखमाप्नुवन्॥ ॥ 7-193-87(54089)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि पञ्चदशदिवसयुद्धे त्रिनवत्यधिकशततमोऽध्यायः॥ 193 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-193-12 एषो हीति सन्धिरार्षः॥ 5-193-22 ब्रह्मवादानां वेदतुल्यानां वचनानाम्। द्वितीयार्थे षष्ठी। श्रुत्येति शेषः॥ 5-193-* कुण्डलिताः 22 श्लोकाः झपुस्तकएव दृश्यन्ते। 5-193-42 पृष्ठेन त्वया पृष्ठेन युधिष्ठिरेण आवेदितः हत इति निवेदितः॥ 5-193-78 परत्र च महद्भयमिति पलायनस्य परलोकविरुद्धत्वात्। उभयेन लोकद्वयेन हीना रहिताः॥ 5-193-193 त्रिनवत्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|